(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.149. अध्यायः 149
Mahabharata - Udyoga Parva - Chapter Topics
कृष्णेन पाण्डवान्प्रति धृतराष्ट्रेण दुर्योधनंप्रत्युक्तवचनानुवादः ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-149-0(36891)
वासुदेव उवाच। 5-149-0x(3827)
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः।
दुर्योधनमुवाचेदं राजमध्ये जनाधिप ॥ 5-149-1(36892)
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥ 5-149-2(36893)
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।
सोमाद्बभूव षष्ठोऽयं ययातिर्नहुषात्मजः ॥ 5-149-3(36894)
तस्य पुत्रा बभूवुर्हि पञ्च राजर्षिसत्तमाः ।
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥ 5-149-4(36895)
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः।
शर्मिष्ठया संप्रसूतो दुहित्रा वृषपर्वणः ॥ 5-149-5(36896)
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत्।
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥ 5-149-6(36897)
यादवानां कुलकरो बलवान्वीर्यसंमतः ।
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥ 5-149-7(36898)
न चातिष्ठत्पितुः शस्त्रि बलदर्पविमोहितः ।
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥ 5-149-8(36899)
पृथिव्यां चतुरन्तायां यदुदेवाभवद्बली ।
वशे कृत्वा स नृपतीन्न्यवसन्नागसाह्वये ॥ 5-149-9(36900)
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।
शशाप पुत्रं गान्धारे राज्याच्चापि व्यरोपयत् ॥ 5-149-10(36901)
ये चैनमन्ववर्तन्त भ्रातरो बलदर्पिताः ।
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥ 5-149-11(36902)
यवीयांसं ततः पुरुं पुत्रं स्ववशवर्तिनम् ।
राज्ये निवेशयामास विधेयं नृपसत्तमः ॥ 5-149-12(36903)
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।
यवीयांसोपि जायन्ते राज्यं वृद्धोपसेवया ॥ 5-149-13(36904)
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥ 5-149-14(36905)
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥ 5-149-15(36906)
देवापिरभवच्छ्रेष्ठो बाह्लीकस्तदनन्तरम् ।
तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः ॥ 5-149-16(36907)
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः ।
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥ 5-149-17(36908)
पौरजानपदानां च संमतः साधुसत्कृतः ।
सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ॥ 5-149-18(36909)
वदान्यः सत्यसन्धश्च सर्वभूतहिते रतः ।
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥ 5-149-19(36910)
बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः ।
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥ 5-149-20(36911)
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।
संभारानभिषेकार्थं कारयामास शास्त्रतः ॥ 5-149-21(36912)
कारयामास सर्वाणि मङ्गलार्थानि वै विभुः ।
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ॥ 5-149-22(36913)
सर्वे निवारयामासुर्देवापेरभिषेचनम् ।
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम्।
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥ 5-149-23(36914)
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत्।
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥ 5-149-24(36915)
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः।
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥ 5-149-25(36916)
ततः प्रव्यथिताङ्गोऽसौ पुत्रशोकसमन्वितः ।
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥ 5-149-26(36917)
बाह्लीको मातुलकुलं त्यक्त्वा राज्यं समाश्रितः ।
पितृभ्रातॄन्परित्यज्य प्राप्तवान्परमर्धिमत् ॥ 5-149-27(36918)
बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः ।
पितर्युपरते राजन्राजा राज्यमकारयत् ॥ 5-149-28(36919)
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना।
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥ 5-149-29(36920)
पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः ।
विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम ॥ 5-149-30(36921)
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि।
अराजपुत्रो ह्यस्वामी परस्वं हर्तुमिच्छसि ॥ 5-149-31(36922)
युधिष्ठिरो राजपुत्रो महात्मा
न्यायागतं राज्यमिदं च तस्य।
स कौरवस्यास्य कुलस्य भर्ता
प्रशासिता चैव महानुभावः ॥ 5-149-32(36923)
स सत्यसन्धः स तथाऽप्रमत्तः
शास्त्रे स्थितो बन्धुजनस्य साधुः।
प्रियः प्रजानां सुहृदानुकम्पी
जितेन्द्रियः साधुजनस्य भर्ता ॥ 5-149-33(36924)
क्षमा तितिक्षा दम आर्जवं च
सत्यव्रतत्वं श्रुतमप्रमादः ।
भूतानुकम्पा ह्यनुशासनं च
युधिष्ठिरे राजगुणाः समस्ताः ॥ 5-149-34(36925)
अराजपुत्रस्त्वमनार्यवृत्तो
लुब्धः सदा बन्धुषु पापबुद्धिः ।
क्रमागतं राज्यमिदं परेषां
हर्तुं कथं शक्ष्यसि दुर्विनीत ॥ 5-149-35(36926)
प्रयच्छ राज्यार्धमपेतमोहः
सवाहनं त्व सपरिच्छदं च ।
ततोऽवशेषं तव जीवितस्य
सहानुजस्यैव भवेन्नरेन्द्र ॥ ॥ 5-149-36(36927)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.